|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.264. अध्यायः 264
Mahabharata - Vana Parva - Chapter Topics
दुर्वाससा दुर्योधनप्रार्थनासफलीकरणायाकाले पाण्डवान्प्रत्यन्नयाचनम् ॥ 1 ॥ तथा युधिष्ठिरानुमत्या शिष्यायुतेन सह स्नानाय नदींप्रति गमनम् ॥ 2 ॥ अत्रान्तरे द्रौपदीप्रार्थनया श्रीकृष्णेन तत्समीपागमनम् ॥ 3 ॥ तथा निवेदितदुर्वासोवृत्तान्तेन तेन स्वीयक्षुन्निवृत्तये द्रौपदीप्रत्यन्नयाचनम् ॥ 4 ॥ तयाऽन्नस्य शेषाभावे निवेदितेऽन्नस्यालीमानाय्य तत्कण्ठलग्नशाकपुलाकभक्षणएन सशिप्यस्य दुर्वाससस्तृप्तिजननम् ॥ 5 ॥ ततो भोजनाय भीमेनाह्वाने लजितस्य दुर्वाससो भर्याच्छिष्यैः सह पलायनम् ॥ 6 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-264-0x(2648)(26090)
ततः कदाचिद्दुर्वासाः सुखासीनांस्तु पाण्डवान्।
भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन्वने मुनिः।
अभ्यागच्छत्परिवृतः शिष्यैरयुतसंमितैः ॥ 3-264-1(26091)
दृष्ट्वा यान्तं तमतिथिं स च राजा युधिष्ठिरः।
जगामाभिमुखः श्रीमान्सह भ्रातृभिरच्युतः ॥ 3-264-2(26092)
तस्मै बद्ध्वाञ्जलिं सम्यगुपवेश्य वरासने।
विधिवत्पूजयित्वा तमातिथ्यन न्यमन्त्रयत्।
आह्निकं भगवन्कृत्वा शीघ्रमेहीति चाब्रवीत् ॥ 3-264-3(26093)
जगाम च मुनिः सोपि स्नातुं शिष्यैः सहानघः।
भोजयेत्सहशिष्यं मां कथमित्यविचिन्तयन् ॥ 3-264-4(26094)
न्यमज्जत्सलिले चापि मुनिसङ्घः समाहितः ॥ 3-264-5(26095)
एतस्मिन्नन्तरे राजन्द्रौपदी योपितां वरा।
चिन्तामवाप परमामन्नहेतोः पतिव्रता ॥ 3-264-6(26096)
सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत।
मनसा चिन्तयामास कृष्णं कंसनिषूदनम् ॥ 3-264-7(26097)
कृष्णकृष्ण महाबाहो देवकीनन्दनाव्यय।
वासुदेव जगन्नाथ प्रणतार्तिविनाशन ॥ 3-264-8(26098)
विश्वात्मन्विश्वजनक विश्वहर्तः प्रभोऽव्यय।
प्रपन्नपाल गोपाल प्रजापाल परात्पर।
आकूतीनां च चित्तीनां प्रवर्तक नताऽस्मि ते ॥ 3-264-9(26099)
वरेण्य वरदानन्त अगतीनां गतिप्रद।
पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर ॥ 3-264-10(26100)
सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता।
पाहि मां कृपया देव शरणागतवत्सल ॥ 3-264-11(26101)
नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण।
पीताम्बरपरीधान लसत्कौस्तुभभूषण ॥ 3-264-12(26102)
त्वमादिरन्तो भूतानां त्वमेव च परायणम्।
परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः ॥ 3-264-13(26103)
त्वामेवाहुः परं बीजं निधानं सर्वसंपदाम्।
त्वया नाथेन देवेश सर्वापद्म्यो भयं न हि ॥ 3-264-14(26104)
दुःशासनादहं पूर्वं सभायां मोचिता यथा।
तथैव संकटादस्मान्मामुद्धर्तुमिहार्हसि ॥ 3-264-15(26105)
वैशम्पायन उवाच। 3-264-16x(2649)
एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः।
द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः ॥ 3-264-16(26106)
पार्स्वस्थां शयने त्यक्त्वा रुक्मिणीं केशवः प्रभुः।
तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः ॥ 3-264-17(26107)
ततस्तं द्रौपदी दृष्ट्वाप्रणम्य परया मुदा।
अब्रवीद्वासुदेवाय मुनेरागमनादिकम् ॥ 3-264-18(26108)
ततस्तामब्रवीत्कृष्णः क्षुधितोस्मि भृशातुरः।
शीघ्रं भोजय मां कृष्णे पश्चात्सर्वं करिष्यसि ॥ 3-264-19(26109)
निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत्।
स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि ॥ 3-264-20(26110)
भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते।
ततः प्रोवाच भगवान्कृष्णां कमललोचनः ॥ 3-264-21(26111)
कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि।
शीघ्रं गच्छ मम स्थालीमानयित्वा प्रदर्शय ॥ 3-264-22(26112)
इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः।
स्थाल्याः कण्ठेऽथ संलग्नं शाकान्नं वीक्ष्यकेशवः ॥ 3-264-23(26113)
उपयुज्याब्रवीदेनामनेन हरिरीश्वरः।
विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभूक् ॥ 3-264-24(26114)
आकारय मुनीञ्शीघ्रं भोजनायेति चाब्रवीत्।
भीमसेनं महाबाहुः कृष्णः क्लेशविनाशनः ॥ 3-264-25(26115)
ततो जगाम त्वरितो भीमसेनो महायशाः।
आकारितुं तु तान्सर्वान्भोजनार्थं नृपोत्तम।
स्नातुं गतान्देवनद्यां दुर्वासःप्रभृतीन्मुनीन् ॥ 3-264-26(26116)
ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम्।
दृष्ट्वोद्गारान्सान्नरसांस्तृप्त्या परमया युताः।
उत्तीर्य सलिलात्तस्माद्दृष्टवन्तः परस्परम् ॥ 3-264-27(26117)
दुर्वाससमभिप्रेक्ष्यते सर्वे मुनयोऽब्रुवन्।
राज्ञा हिकारयित्वाऽन्नं वयं स्नातुं समागताः ॥ 3-264-28(26118)
आकण्ठतृप्ता विप्रर्षे किंस्विद्भुञ्जामहे वयम्।
वृथा पाकः कृतोस्माभिस्तत्र किं करवामहे ॥ 3-264-29(26119)
दुर्वासा उवाच। 3-264-30x(2650)
वृथा पाकेन राजर्षेरपराधः कृतो महान्।
माऽस्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा ॥ 3-264-30(26120)
स्मृत्वाऽनुभावं राजर्षेरम्बरीषस्य धीमतः।
बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात् ॥ 3-264-31(26121)
पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः।
शूराश्चकृतविद्याश्च व्रतिनस्तपसि स्थिताः ॥ 3-264-32(26122)
सदाचाररता नित्यं वासुदेवपरायणाः।
क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः।
तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत ॥ 3-264-33(26123)
वैशम्पायन उवाच। 3-264-34x(2651)
इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा।
पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश ॥ 3-264-34(26124)
भीमसेनो देवनद्यामपश्यन्मुनिसत्तमान्।
तीर्थे ष्वितस्ततस्तस्या विचचार गवेषयन् ॥ 3-264-35(26125)
तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा ताश्चैव विद्रुतान्।
युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत् ॥ 3-264-36(26126)
ततस्ते पाण्डवाः सर्वे प्र्यागमनकाङ्क्षिणः।
प्रतीक्षनतः कियत्कालं जितात्मानोऽवतस्थिरे ॥ 3-264-37(26127)
निशीथेऽभ्येत्य चाकस्मादस्मान्स च्छलयिष्यति।
कथं च निस्तरेमास्मात्कृच्छ्राद्दैवोपसादितात् ॥ 3-264-38(26128)
इति चिन्तापरान्दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः।
उवाच वचनं श्रीमान्कृष्णः प्रत्यक्षतां गतः ॥ 3-264-39(26129)
भवतामापदं ज्ञात्वा ऋषेः परमकोपनात्।
द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः ॥ 3-264-40(26130)
न भयं विद्यतेतस्मादृषेर्दुर्वाससोऽल्पकम्।
तेजसा भवतां भीतः पूर्वमेव पलायितः ॥ 3-264-41(26131)
धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित्।
आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः ॥ 3-264-42(26132)
वैशम्पायन उवाच। 3-264-43x(2652)
श्रुत्वेरितं केशवस्य बभूवुः स्वस्थामानसाः।
द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः ॥ 3-264-43(26133)
त्वया नाथेन गोविन्द दुस्तरामापदं विभो।
तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे ॥ 3-264-44(26134)
स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम् ॥ 3-264-45(26135)
पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो।
ऊषुः प्रहृष्टमनसो विहरन्तो वनाद्वनम्।
इति तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया ॥ 3-264-46(26136)
एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः।
पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाऽभवन् ॥ 3-264-47(26137)
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि चतुःषष्ट्यधिकद्विशततमोऽध्यायः ॥ 264 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-264-6 एतस्मिन्नन्तरे काले ॥ 3-264-9 आकूतीनां चित्तीनां चेति चेतोवृत्तिविशेषाणाम् ॥ 3-264-25 सहदेव महाबाहुरिति झ. पाठः ॥ 3-264-26 सहदेवो महायशा इति झ. पाठः ॥ 3-264-35 सहदेवो देवनद्यामिति झ. पाठः ॥ 3-264-47 अलीकान्यहितानि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|