(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.264. अध्यायः 264
Mahabharata - Vana Parva - Chapter Topics
दुर्वाससा दुर्योधनप्रार्थनासफलीकरणायाकाले पाण्डवान्प्रत्यन्नयाचनम् ॥ 1 ॥ तथा युधिष्ठिरानुमत्या शिष्यायुतेन सह स्नानाय नदींप्रति गमनम् ॥ 2 ॥ अत्रान्तरे द्रौपदीप्रार्थनया श्रीकृष्णेन तत्समीपागमनम् ॥ 3 ॥ तथा निवेदितदुर्वासोवृत्तान्तेन तेन स्वीयक्षुन्निवृत्तये द्रौपदीप्रत्यन्नयाचनम् ॥ 4 ॥ तयाऽन्नस्य शेषाभावे निवेदितेऽन्नस्यालीमानाय्य तत्कण्ठलग्नशाकपुलाकभक्षणएन सशिप्यस्य दुर्वाससस्तृप्तिजननम् ॥ 5 ॥ ततो भोजनाय भीमेनाह्वाने लजितस्य दुर्वाससो भर्याच्छिष्यैः सह पलायनम् ॥ 6 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-264-0x(2648)(26090)
ततः कदाचिद्दुर्वासाः सुखासीनांस्तु पाण्डवान्।
भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन्वने मुनिः।
अभ्यागच्छत्परिवृतः शिष्यैरयुतसंमितैः ॥ 3-264-1(26091)
दृष्ट्वा यान्तं तमतिथिं स च राजा युधिष्ठिरः।
जगामाभिमुखः श्रीमान्सह भ्रातृभिरच्युतः ॥ 3-264-2(26092)
तस्मै बद्ध्वाञ्जलिं सम्यगुपवेश्य वरासने।
विधिवत्पूजयित्वा तमातिथ्यन न्यमन्त्रयत्।
आह्निकं भगवन्कृत्वा शीघ्रमेहीति चाब्रवीत् ॥ 3-264-3(26093)
जगाम च मुनिः सोपि स्नातुं शिष्यैः सहानघः।
भोजयेत्सहशिष्यं मां कथमित्यविचिन्तयन् ॥ 3-264-4(26094)
न्यमज्जत्सलिले चापि मुनिसङ्घः समाहितः ॥ 3-264-5(26095)
एतस्मिन्नन्तरे राजन्द्रौपदी योपितां वरा।
चिन्तामवाप परमामन्नहेतोः पतिव्रता ॥ 3-264-6(26096)
सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत।
मनसा चिन्तयामास कृष्णं कंसनिषूदनम् ॥ 3-264-7(26097)
कृष्णकृष्ण महाबाहो देवकीनन्दनाव्यय।
वासुदेव जगन्नाथ प्रणतार्तिविनाशन ॥ 3-264-8(26098)
विश्वात्मन्विश्वजनक विश्वहर्तः प्रभोऽव्यय।
प्रपन्नपाल गोपाल प्रजापाल परात्पर।
आकूतीनां च चित्तीनां प्रवर्तक नताऽस्मि ते ॥ 3-264-9(26099)
वरेण्य वरदानन्त अगतीनां गतिप्रद।
पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर ॥ 3-264-10(26100)
सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता।
पाहि मां कृपया देव शरणागतवत्सल ॥ 3-264-11(26101)
नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण।
पीताम्बरपरीधान लसत्कौस्तुभभूषण ॥ 3-264-12(26102)
त्वमादिरन्तो भूतानां त्वमेव च परायणम्।
परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः ॥ 3-264-13(26103)
त्वामेवाहुः परं बीजं निधानं सर्वसंपदाम्।
त्वया नाथेन देवेश सर्वापद्म्यो भयं न हि ॥ 3-264-14(26104)
दुःशासनादहं पूर्वं सभायां मोचिता यथा।
तथैव संकटादस्मान्मामुद्धर्तुमिहार्हसि ॥ 3-264-15(26105)
वैशम्पायन उवाच। 3-264-16x(2649)
एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः।
द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः ॥ 3-264-16(26106)
पार्स्वस्थां शयने त्यक्त्वा रुक्मिणीं केशवः प्रभुः।
तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः ॥ 3-264-17(26107)
ततस्तं द्रौपदी दृष्ट्वाप्रणम्य परया मुदा।
अब्रवीद्वासुदेवाय मुनेरागमनादिकम् ॥ 3-264-18(26108)
ततस्तामब्रवीत्कृष्णः क्षुधितोस्मि भृशातुरः।
शीघ्रं भोजय मां कृष्णे पश्चात्सर्वं करिष्यसि ॥ 3-264-19(26109)
निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत्।
स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि ॥ 3-264-20(26110)
भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते।
ततः प्रोवाच भगवान्कृष्णां कमललोचनः ॥ 3-264-21(26111)
कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि।
शीघ्रं गच्छ मम स्थालीमानयित्वा प्रदर्शय ॥ 3-264-22(26112)
इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः।
स्थाल्याः कण्ठेऽथ संलग्नं शाकान्नं वीक्ष्यकेशवः ॥ 3-264-23(26113)
उपयुज्याब्रवीदेनामनेन हरिरीश्वरः।
विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभूक् ॥ 3-264-24(26114)
आकारय मुनीञ्शीघ्रं भोजनायेति चाब्रवीत्।
भीमसेनं महाबाहुः कृष्णः क्लेशविनाशनः ॥ 3-264-25(26115)
ततो जगाम त्वरितो भीमसेनो महायशाः।
आकारितुं तु तान्सर्वान्भोजनार्थं नृपोत्तम।
स्नातुं गतान्देवनद्यां दुर्वासःप्रभृतीन्मुनीन् ॥ 3-264-26(26116)
ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम्।
दृष्ट्वोद्गारान्सान्नरसांस्तृप्त्या परमया युताः।
उत्तीर्य सलिलात्तस्माद्दृष्टवन्तः परस्परम् ॥ 3-264-27(26117)
दुर्वाससमभिप्रेक्ष्यते सर्वे मुनयोऽब्रुवन्।
राज्ञा हिकारयित्वाऽन्नं वयं स्नातुं समागताः ॥ 3-264-28(26118)
आकण्ठतृप्ता विप्रर्षे किंस्विद्भुञ्जामहे वयम्।
वृथा पाकः कृतोस्माभिस्तत्र किं करवामहे ॥ 3-264-29(26119)
दुर्वासा उवाच। 3-264-30x(2650)
वृथा पाकेन राजर्षेरपराधः कृतो महान्।
माऽस्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा ॥ 3-264-30(26120)
स्मृत्वाऽनुभावं राजर्षेरम्बरीषस्य धीमतः।
बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात् ॥ 3-264-31(26121)
पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः।
शूराश्चकृतविद्याश्च व्रतिनस्तपसि स्थिताः ॥ 3-264-32(26122)
सदाचाररता नित्यं वासुदेवपरायणाः।
क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः।
तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत ॥ 3-264-33(26123)
वैशम्पायन उवाच। 3-264-34x(2651)
इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा।
पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश ॥ 3-264-34(26124)
भीमसेनो देवनद्यामपश्यन्मुनिसत्तमान्।
तीर्थे ष्वितस्ततस्तस्या विचचार गवेषयन् ॥ 3-264-35(26125)
तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा ताश्चैव विद्रुतान्।
युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत् ॥ 3-264-36(26126)
ततस्ते पाण्डवाः सर्वे प्र्यागमनकाङ्क्षिणः।
प्रतीक्षनतः कियत्कालं जितात्मानोऽवतस्थिरे ॥ 3-264-37(26127)
निशीथेऽभ्येत्य चाकस्मादस्मान्स च्छलयिष्यति।
कथं च निस्तरेमास्मात्कृच्छ्राद्दैवोपसादितात् ॥ 3-264-38(26128)
इति चिन्तापरान्दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः।
उवाच वचनं श्रीमान्कृष्णः प्रत्यक्षतां गतः ॥ 3-264-39(26129)
भवतामापदं ज्ञात्वा ऋषेः परमकोपनात्।
द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः ॥ 3-264-40(26130)
न भयं विद्यतेतस्मादृषेर्दुर्वाससोऽल्पकम्।
तेजसा भवतां भीतः पूर्वमेव पलायितः ॥ 3-264-41(26131)
धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित्।
आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः ॥ 3-264-42(26132)
वैशम्पायन उवाच। 3-264-43x(2652)
श्रुत्वेरितं केशवस्य बभूवुः स्वस्थामानसाः।
द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः ॥ 3-264-43(26133)
त्वया नाथेन गोविन्द दुस्तरामापदं विभो।
तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे ॥ 3-264-44(26134)
स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम् ॥ 3-264-45(26135)
पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो।
ऊषुः प्रहृष्टमनसो विहरन्तो वनाद्वनम्।
इति तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया ॥ 3-264-46(26136)
एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः।
पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाऽभवन् ॥ 3-264-47(26137)

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि चतुःषष्ट्यधिकद्विशततमोऽध्यायः ॥ 264 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-264-6 एतस्मिन्नन्तरे काले ॥ 3-264-9 आकूतीनां चित्तीनां चेति चेतोवृत्तिविशेषाणाम् ॥ 3-264-25 सहदेव महाबाहुरिति झ. पाठः ॥ 3-264-26 सहदेवो महायशा इति झ. पाठः ॥ 3-264-35 सहदेवो देवनद्यामिति झ. पाठः ॥ 3-264-47 अलीकान्यहितानि ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.